Acharya Vyakarana

Offered by: School of Vedic Knowledge Systems

Specialization: Advaita-Vedanta

Duration: Five years (Ten Semesters)

Eligibility: Vyākaraṇa

Campus: Chinmaya Eswar Gurukula

The ‘5 Year Integrated Masters’ in Vyakarana is aimed at training students thoroughly in Vyakarana Shastra. There are different traditions in India emphasizing different aspects of Vyākaraṇa Śāstra. This program is designed in such a way that the students have the benefit of the qualities of all the traditions. Here the study starts with memorizing Aṣṭādhyāyī consisting of 4000 sūtras, and continues with the important granthas at primary level and then advanced level such as siddhāntakaumudī, kāśikāvr̥tti, mahābhāṣya etc. There are a variety of courses designed to build language and communication skills, computer skills and other skills helping the student to become employable. Students, at the end of the course, will be able to continue the tradition by teaching, going for higher studies or engaging in high quality research in their respective areas.

 

सम्प्रदायानुसारेण व्याकरणशास्त्रमधिजिगांसूनां कृते एषः पाठ्यक्रमः परिकल्पितः । पाणिनीये वैदुष्यं प्रेप्सुभिः प्राधान्येन अवगन्तव्याः अंशाः सन्ति अष्टाध्याय्याः क्रमः, शब्दसिद्धिप्रक्रिया, सूत्राणां लक्ष्यसाधकत्वपरीक्षा, आर्थिकविचाराः  चेति । सम्प्रति भारतदेशे अनेकाः व्यकरणाध्य्यनपद्धतयो दरीदृश्यन्ते यत्र एतेषामंशनां क्वचित् कश्चिदाद्रियते । इहास्माभिः ताः पद्धतीरवलोक्य, तदीयैर्गुणैश्छात्राः यथा युज्येरन् तथायं पाठ्यक्रमः परिकल्पितः ।

तत्र सौत्रक्रमज्ञानाय व्याकरणाध्ययनप्राणभूतमष्टाध्याय्याः स्मरणमादौ क्रियते । ततः सूत्रार्थज्ञानं, लक्ष्ये तत्समन्वयं च साधयितुं सिद्धान्तकौमुदी अधीयते । सिद्धान्तकौमुद्याः अध्ययनावसरे मध्ये एव, पौष्पी तिङन्तप्रक्रियापद्धतिः बोध्यते, यया पाणिनीयप्रक्रियायाः स्वारस्ये ज्ञाते तिङन्तप्रकरणस्याध्ययने सौकर्यं कल्प्यते । ततः सूत्रार्थानामुपरि प्रौढविचारपरे द्वे व्याख्ये, प्रौढमनोरमा-लघुशब्देन्दुशेखराख्ये अध्याप्येते यत्र प्राधान्येन शब्दसिद्धिप्रक्रियायाः वैशद्येन विमर्शः इतरैः सहकारिभिर्विषयैः सह कृतः । एतेन शब्दसिद्धिप्रक्रियायां पाटवं छात्रा अवाप्नुयुः ।

तत उत्तरं महाभाष्यस्य आद्यानि नवाह्निकानि, समर्थाह्निकं, कारकाह्निकं च अध्याप्यन्ते । अत्र सूत्रस्य अतिव्याप्त्यव्याप्त्यादिविचाराः, प्रत्याख्यानानि, उपसंख्यानानि इति सर्वस्यास्य परिचयो भवति । अनेन शास्त्रस्य सर्वात्मना परीक्षणं भवति ।

ततः आर्थिकविषयाणां परिचयाय वैयाकरणभूषणसारः, लघुमञ्जूषायाः सुबर्थविचारात्मको भागश्च अध्याप्येते । एतन्मध्ये वाक्यपदीयमपि अध्याप्यते यत्र व्याकरणस्य आर्थिकभागस्य मूलभूता अंशा निरूपिताः ।

एतावता अधीतेन छात्राः प्रायेण व्याकरणविषयस्य कस्यापि ग्रन्थस्य अवलोकने अवगमने विमर्शे च सामर्थ्यमाप्नुवन्ति । एतावती अध्ययनपद्धतिः अन्याभिः सभाभिः संचाल्यमानासु परीक्षासु भागग्रहणे छात्राणां सामर्थ्यं भवेदिति धिया, काञ्ची-वेदवेदान्तशास्त्रसभया तेनलीनगर्यां संचाल्यमानां परीक्षापद्धतिं मनसि निधाय कल्पिता ।  व्याकरणाध्ययनस्य मुख्यमुद्देश्यं भवति शब्दानां साधुत्वपरीक्षा । सा च स्वस्य इतरेषां च प्रयोगेषु । सा च विना प्रामाणिकप्रयोगावलोकनं न शक्यते कर्तुमिति तदर्थं प्राचीनानामर्वाचीनानां च विदुषां प्रयोगपरिचयाय काव्यमप्यत्र अनिवार्यविषयतया निवेशितम् । एवं व्याकरणाध्ययने अपेक्षितस्य न्यायशास्त्रस्य परिचयाय दीपिकासहितः तर्कसंग्रहोऽपि पाठ्यक्रमे निवेशितः ।

ततः छात्राणां संवहनगणकयन्त्रप्रयोगादिकौशलवर्धनाय अन्ये च विषयाः निवेशिताः ।

प्रवेशार्हता – व्याकरणशास्त्रस्य अद्वैतवेदान्तशास्त्रस्य च अस्मिन् पाञ्चवार्षिके पाठ्यक्रमे प्रवेशमिच्छन्तः छात्राः संस्कृतभाषया संभाषणे, पठने, अवगमने च समर्थाः स्युः । साहित्यप्रवेशः, प्राक्शास्त्री, उत्तरमध्यमा इत्येतासु, प्राक्-शिरोमणिः एतत्समानासु अन्यासु वा परीक्षासु उत्तीर्णाः अत्र प्रवेशमर्हन्ति । एतेषां छात्राणां कृते प्रवेशपरीक्षा आयोजयिष्यते । तत्र उत्तीर्णानां विद्यार्थिनां विश्वविद्यालये प्रवेशः कल्प्यते । ये च द्वादशवर्गसमानासु अन्यासु परीक्षासु संस्कृतम् अनधीतवन्तः अत्र प्रवेशमिच्छन्ति तेषामपि प्रवेशपरीक्षायाम् अवकाशः विद्यते ।

Semester-wise Courses –

Total number of credits (five year integrated program) – 186

Total number of credits in the first three years – 109

Total number of credits in the last two years – 77

उत्तरायणम् दक्षिणायनम्
Semester 1 Semester 2
संकृतभाषा – १ (रघुवंशम्) 3 संस्कृतभाषा – २ (चम्पूरामायणम्) 3
English – 1 4 English – 2 (Business Communication) 1
अष्टाध्यायीधारणा – १ 6 English – 3 (Communication Lab) 2
व्याकरणप्रवेशः 4 अष्टाध्यायीधारणा – २ 6
Yoga & Meditation 0 ;सिद्धान्तकौमुदी – १ 5
Total 17 Total 17
Semester 3 Semester 4
संकृतभाषा – ३ (रघुवंशम्) 4 संस्कृतभाषा – ४ (चम्पूरामायणम्) 4
Computing Lab (1) 1 तर्कसंग्रहदीपिका – १ 4
Computing for Business & Society 2 सिद्धान्तकौमुदी – ३ 5
Indic Knowledge Systems – 1 4 Introduction to Seva 1
सिद्धान्तकौमुदी – २ 5 Indian Knowledge Systems – 2 4
तिङन्तप्रक्रिया (पौष्पपद्धत्यनुसारिणी) 5    
Total 21 Total 18
Semester 5 Semester 6
काशिका (प्रथमोऽध्यायः) 4 प्रौढमनोरमा – २ 5
English – 4 (Communication
Lab)
3 सिद्धान्तकौमुदी – ६ 5
प्रौढमनोरमा – १ (आदितः पञ्चसन्ध्यन्ता,सश्ब्दरत्ना) 5 परिभाषेन्दुशेखरः – १ 5
सिद्धान्तकौमुदी – ४ 4 Business, Government and Society  
सिद्धान्तकौमुदी – ५ 5    
Total 21 Total 17
Semester 7 Semester 8
स्वरप्रक्रिया 3 लघुशब्देन्दुशेखरः – २ 4
लघुशब्देन्दुशेखरः – १ 5 प्रौढमनोरमा – ३ 5
प्रौढमनोरमा – २ (आदितः पञ्चसन्ध्यन्ता,
सश्ब्दरत्ना)
5 महाभाष्यम् – १ 5
परिभाषेन्दुशेखरः – २ 4 महाभाष्यम् – २ 3
परिभाषेन्दुशेखरः – ३ 3    
Total 20 Total 17
Semester 9 Semester 10
भाट्टरहस्यम् (प्रथमार्थविचारपर्यन्तम्) 4 व्युत्पत्तिवादः 4
वाक्यपदीयम् (साधनसमुद्देशः) 4 महाभाष्यम् – ४ 5
महाभाष्यम् – ३ 5 वैयाकरणसिद्धान्तलघुमञ्जूषा (आदितः
तात्पर्यनिरूपणान्तो भागः
5
वैयाकरणभूषणसारः – १ 5 प्रबन्धलेखनम् 4
वाक्यार्थप्रस्तुतिः – १ 2 वाक्यार्थप्रस्तुतिः – २ 2
Total 20 Total 20

 

Admission Apply Now Download Brochure
Opens Closes
Dec 24, 2017 May 20, 2018
Results Announced
1st list 2nd list 3rd list
Feb 28,2018 Apr 22,2018 May 31,2018
image
Unless we have a definite faith in the goal of our existence, and unless we believe, work for, and actually come to experience the goal positively as an existent factor, there is no hope of any plan becoming successful. —Swami Chinmayananda
2018 © All rights reserved
Show Buttons
Share On Facebook
Share On Twitter
Share On Google Plus
Share On Linkedin
Share On Pinterest
aaa