IM – Advaita Vedanta

Offered by: School of Vedic Knowledge Systems

Specialization: Advaita-Vedanta

Duration: Five years (Ten Semesters)

Eligibility: Students who have passed Prak-Shastri, Uttara-Madhyama, Sahitya-pravesha and any of the other recognized examinations equivalent to Class 12 are eligible for this program. They will also have to pass the entrance examination conducted by Chinmaya Vishwavidyapeeth.

Campus: Chinmaya Eswar Gurukula

सूचना – प्रवेशम् इच्छन्तः छात्राः अधः दत्तम् आवेदनापत्रद्वयम् अपि पूरयेयुः । तत्र एकम् आवेदनापत्रं विश्वविद्यालये प्रवेशार्थम्,अपरं च प्रवेशपरीक्षार्थम् |

Note: Applicants desirous of applying for the 5-year Integrated Masters program are required to complete two application forms. The first is for admission into Chinmaya Vishwavidyapeeth and the second, is for the Entrance Examination.

The ‘5 Year Integrated Master in Sanskrit – ‘Advaita Vedanta’ course is designed for students desirous of studying Advaita Vedanta in the traditional way. This school of Indian philosophy is based on three texts – the Upaniṣads, the Brahmasutras and the Bhagavad-gita. These are also called ‘Prasthanatrayi’.The commentaries of Sri Adi Sankaracharya on ‘Prasthanatrayi’ are a composite treatise for the study of Advaita, and therefore the curriculum covers all commentaries of Sri Adi Sankaracharya. To understand the concepts of Advaita-vedanta one should also be familiar with the concepts of other philosophies such as Nyaya and Samkhya. Hence, the Integrated Masters course for Advaita Vedānta will also include important concepts of these schools.This course has been designed to include the best and important aspects of the most prominent traditions of Indian philosophy.

इह खलु नामरूपकर्मात्मके  भोक्तृभोग्यलक्षणे सुखदु:खमोहस्वभावे संसारार्णवे निमग्नान् जनान् समुद्दिधीर्षु: स्वयं भगवान् श्रीशङ्कर: शङ्कराचार्यरूपेणावतीर्य श्रुतिशिखाभूतमहावाक्यप्रतिपाद्यात्मस्वरूपरूपार्थनिर्णयार्थं श्रुतिस्मृतिन्यायाख्येषु त्रिष्वपि प्रस्थानेषु भाष्यग्रन्थान् विरचय्य उपक्रमोपसंहारादिभि: षड्भिस्तात्पर्यलिङ्गै: नित्यशुद्धबुद्धमुक्तस्वभावेऽद्वितीयब्रह्ममात्रे सर्वासामुपनिषदां तात्पर्यमवदधार। भगवत्पादप्रणीता एत एव भाष्यग्रन्था अद्वैतवेदान्तशास्त्रस्य प्रमाणभूता: ग्रन्था: सन्ति। तेषाञ्च भाष्यग्रन्थानामतिगभीरतात्पर्यवत्वात् साक्षात्प्रवेष्टुमशक्यत्वेन तत्र प्रवेशसामर्थ्यसम्पादनाय सामान्यतो वेदान्तशास्त्रीयविषयाणामवबोधाय वेदान्तसार-वेदान्तपरिभाषाख्यौ द्वौ प्रकरणग्रन्थौ पाठ्यक्रमस्य आदौ विनियोजितौ, किञ्च काणादं पाणिनीयञ्च सर्वशास्त्रोपकारकमित्युक्त्या  व्याकरणादिशास्त्राणामखिलशास्त्रोपकारकत्वादवश्य-मध्येतव्यतया तेषामपि शास्त्राणमतिविस्तृतत्वेन सर्वांशेनात्र योजयितुमशक्यतया सिद्धान्तकौमुदीस्था: केचनांशा: अत्र पाठ्यक्रमे विनियोजिता:, अथ च वेदान्तशास्त्रीयवादग्रन्थेषु प्रवेशाय च अवश्यापेक्षितानां शास्त्रान्तरीयविषयाणां परिचायाय तर्कसंग्रहदीपिका-मीमांसान्यायप्रकाशाख्ययोः ग्रन्थयोरप्यत्र विनिवेशः कृतः । वेदान्तदर्शनस्य अभियुक्तैर्वणिते प्रस्थानत्रयेऽन्यतमं  प्रस्थानं  वर्तते  स्मृतिप्रस्थानम्। तच्च स्मृतिप्रस्थानं भागवगीता वर्तते। अस्योपरि श्रीमद्भगवत्पादशङ्कराचार्याणां भाष्यं समस्तवेदान्तार्थावबोधकं राराजते दर्शनजगति। आनन्दगिर्याचार्यैस्तु ग्रन्थोऽयं त्रिषु काण्डेषु विभक्त:। तत्र पूर्वषट्कात्मकं पूर्वकाण्डं त्वम्पदार्थं विषयीकरोति, मध्यमकाण्डं तत्पदार्थं विषयीकरोति, अन्तिमषट्कं तु पदार्थयोरैक्यं वाक्यार्थमधिकरोति। अस्मिन् पाठ्यक्रमे त्रिषु सत्रेषु विभज्य अयं ग्रन्थ: पाठयिष्यते, तत्र प्रथमवर्षस्य द्वितीये सत्रे प्रथमषट्कस्यार्धभाग एव पाठ्यत्वेन निर्धारित:, तृतीये सत्रे चतुर्थाध्यायादारभ्य मध्यमषट्कपर्यन्तो भाग: पञ्चमसत्रे च अन्तिमषट्कं पाठ्यत्वेन निर्धारितं वर्तते। तदनु पञ्चदशीग्रन्थस्य प्रथमद्वितीयषष्ठप्रकरणानि अत्र पाठ्यत्वेन स्वीकृतानि सन्ति। तत: परमुपनिषदां भाष्यग्रन्था: ब्रह्मसूत्रभाष्यञ्च  विभज्य पाठ्यक्रमस्याङ्गत्वेन स्वीकृतं वर्तते। उपनिषत्सु विशेषत: छान्दोग्योपनिषद: षष्ठसप्तमाष्टमाध्याया: बृहदारण्यकोपनिषदश्चतुर्थाध्यायश्च पाठ्यक्रमे विनियोजिता:। भाष्यग्रन्थेषु विद्यमाना: भगवत्पादश्रीमन्मुखाम्बुजनिर्गता: सूक्ती: समाश्रित्य तत्तदद्वैतदर्शनाचार्यैः यथासंस्कारं यथाश्रुतं च निजनिजव्युत्पत्त्यनुसारेण एतद्दर्शनीयतत्त्वबोधोपयोगितया कल्पितानां प्रक्रियाणां संग्रहात्मकः श्रीमदप्पयदीक्षितेन्द्रविरचितः शास्त्रसिद्धान्तलेशसंग्रहाख्यो ग्रन्थोऽपि यथायथं विभज्य पाठ्यक्रमस्यास्याङ्गत्वेन स्वीकृतः, यस्याध्ययनेन प्रायः समेषामपि अद्वैतदर्शनाचार्याणां मतं सुविदितं भवति । अतः परम् अद्वैतवेदान्तसिद्धान्ते द्वैतिभिः प्रदर्शितान् दोषाभासान् निराकर्तुं यतिश्रेष्ठैः आचार्यैः श्रीमधुसूदनसरस्वतीचरणैः विरचितः अद्वैतसिद्धिग्रन्थः प्रतिकर्मव्यवस्थापरिच्छेदान्त: पाठ्यक्रमेऽस्मिन् अङ्गीकृतः । ब्रह्मसूत्रशाङ्करभाष्यस्य सर्वतन्त्रस्वतन्त्र-श्रीवाचस्पतिमिश्रैर्विरचिता भामतीत्याख्या व्याख्या समन्वयाधिकरणान्ता विभज्य चरमसत्रद्वये  पाठ्यग्रन्थत्वेन स्वीकृता ।

अयं च पाठ्यक्रमः सम्प्रदायानुसारम् अद्वैतवेदान्तमधिगन्तुकामान्,विशेषेण शोधादिकार्येष्वपि दत्तश्रद्धान् छात्रान् समुद्दिश्य भारतदेशे अन्यासु संस्थासु अद्वैतवेदान्तशास्त्रपाठ्यक्रमविषये आश्रितां पद्धतिं परिशील्य च विनिर्मितः । इत्थमेते ग्रन्थाः अत्र पाठ्यक्रमे विनियोजिताः । एतेषां ग्रन्थानां सम्यगध्ययनं छात्राणां नूनं विशिष्टां व्युत्पत्तिं सम्पादयिष्यति यया ते छात्राः अन्यान् ग्रन्थान् स्वयमध्येतुम् अध्यापयितुं च प्रभवेयुः ।

ततः छात्राणां संवहनगणकयन्त्रप्रयोगादिकौशलवर्धनाय अन्ये च विषयाः कल्पिताः ।

Semester-wise Courses –

2018-23 Acharya Advaita Vedanta
Semester 1 Semester 2
Course Type Course Title Course Type Course Title
Foundation संस्कृतभाषा – १ (रघुवंशम् – द्वितीयः सर्गः) Foundation संस्कृतभाषा – २ (चम्पूरामायणम् – बालकाण्डः)
Proficiency English – 1/ Hindi- 2 Proficiency English – 2 (Business Communication) / Hindi- 2
Core वेदान्तसार: (सम्पूर्णम्) Proficiency English – 3 (Communication Lab) / Hindi- 3
Foundation व्याकरणप्रवेशः (सन्धिः, कारकम्, समासः, प्रक्रियापरिचयः) Core गीताभाष्यम् – (तृतीयाध्यायपर्यन्तम्)
Foundation तर्कसङ्ग्रहदीपिका -1(प्रत्यक्षखण्डान्तो भागः) Core वेदान्तपरिभाषा – (आगमपरिच्छेदान्ता)
Self-Immersion Yoga and Meditation Foundation तर्कसङ्ग्रहदीपिका -२ (अनुमानखण्डादारभ्यान्तम्)
Semester 3 Semester 4
Course Type Course Title Course Type Course Title
Foundation Computing Lab (1) Proficiency संस्कृतभाषा – 3 (वेणीसंहारम् – १, २, ३ अङ्काः)
Proficiency Computing for Business & Society Core गीताभाष्यम् – 3(चरमषट्कम्)
Core गीताभाष्यम्-2(चतुर्थाध्यायान्मध्यमषट्कान्तम्) Core पञ्चदशी (प्रथमद्वितीयषष्ठप्रकरणानि)
Foundation Indic Knowledge Systems – 1 Self-Immersion Introduction to Seva
Core वेदान्तपरिभाषा – 2(अर्थापत्तिपरिच्छेदादारभ्यान्तम्) Foundation Indian Knowledge Systems – 2
Core सांख्यकारिका + योगसूत्रम् (भोजवृत्तिसहितम्) Core मीमांसान्यायप्रकाश : -1(समाख्यानिरूपणान्तः)
Semester 5 Semester 6
Course Type Course Title Course Type Course Title
Proficiency English – 4 (Communication Lab) / Hindi- 4 Core माण्डूक्योपनिषद् सगौडपादीयकारिका सभाष्या
Core ईशकेनकठोपनिषद: सभाष्या: Core तैत्तिरीयोपनिषत् सभाष्या
Core प्रश्नमुण्डक-ऐतरेयोपनिषद: सभाष्या: Core सिद्धान्तलेशसङ्ग्रह: -२ (प्रथमपरिच्छेदस्य शेष: द्वितीयपरिच्छेदश्च)
Core सिद्धान्तलेशसंग्रहः – १(प्रथमपरिच्छेदे अहंकाराद्यनुसंधानविचारः) Proficiency Business, Government and Society
Core मीमांसान्यायप्रकाश: -२ (अवशिष्टो भागः)    
Semester 7 Semester 8
Course Type Course Title Course Type Course Title
Core छान्दोग्योपनिषद: षष्ठसप्तमाष्टमाध्याया: सभाष्या: Core बृहदारण्यकोपनिषद् सभाष्या
Core ब्रह्मसूत्रभाष्यम् – १ (चतुःसूत्री) Core ब्रह्मसूत्रभाष्यम् – ३(द्वितीयोSध्याय:)
Core सिद्धान्तलेशसंग्रहः – ३ तृतीयचतुर्थौ परिच्छेदौ Core अद्वैतसिद्धि:- १ सोपाधिकत्वभङ्ग:
Core ब्रह्मसूत्रभाष्यम् -२ (ईक्षत्यधिकरणप्रभृति-प्रथमाध्यायस्य चरमपादान्तम्) Core पञ्चपादिकाविवरणम् (प्रथमवर्णकम्)
Semester 9 Semester 10
Course Type Course Title Course Type Course Title
Core भामती जिज्ञासाधिकरणान्ता Core भामती जन्माद्यधिकरणादारभ्य समन्वयाधिकरणपर्यन्ता
Core ब्रह्मसूत्रभाष्यम् -४(तृतीयोSध्याय:) Core ब्रह्मसूत्रभाष्यम् -५ (चतुर्थोSध्याय:)
Core अद्वैतसिद्धि: (प्रतिकर्मव्यवस्थापर्यन्ता) Core अद्वैतसिद्धि: -लघुचन्द्रिका (प्रथममिथ्यात्वपर्यन्ता)
Core अन्यवेदान्तदर्शनानां परिचयः Core प्रबन्धलेखनम्

सूचना – प्रवेशम् इच्छन्तः छात्राः अधः दत्तम् आवेदनापत्रद्वयम् अपि पूरयेयुः । तत्र एकम् आवेदनापत्रं विश्वविद्यालये प्रवेशार्थम्,अपरं च प्रवेशपरीक्षार्थम् ।

Note: Applicants desirous of applying for the 5-year Integrated Masters program are required to complete two application forms. The first is for admission into Chinmaya Vishwavidyapeeth and the second, is for the Entrance Examination.

 

 

 

image
Unless we have a definite faith in the goal of our existence, and unless we believe, work for, and actually come to experience the goal positively as an existent factor, there is no hope of any plan becoming successful. —Swami Chinmayananda
2018 © All rights reserved
Show Buttons
Share On Facebook
Share On Twitter
Share On Google Plus
Share On Linkedin
Share On Pinterest
aaa